अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
ayaṁ vām madhumattamaḥ sutaḥ soma ṛtāvṛdhā | tam aśvinā pibataṁ tiroahnyaṁ dhattaṁ ratnāni dāśuṣe ||
अ॒यम् । वा॒म् । मधु॑मत्तमः । सु॒तः । सोमः॑ । ऋ॒त॒वृ॒धा॒ । तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रःअ॑ह्न्यम् । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑॥
स्वामी दयानन्द सरस्वती
अब इसके आगे चौथे अध्याय के भाष्य का आरम्भ है। उसके पहिले मंत्र में अश्वि से क्या सिद्ध करना चाहिये इस विषय का उपदेश अगले मंत्र में किया है।
स्वामी दयानन्द सरस्वती
(अयम्) वक्ष्यमाण एताभ्यां साधितः (वाम्) युवाभ्यां (मधुमत्तमः) प्रशस्ता मधुरादयो गुणा विद्यन्ते यस्मिन् सोऽतिशयितः (सुतः) निष्पादितः (सोमः) वैद्यकशिल्पक्रियया संसाधित ओषधीरसः (ऋतावृधा) यावृतेन जलेन यथार्थतया शिल्पक्रियया वा वर्धेते तौ (तम्) रसम् (अश्विना) सूर्य्यपवनाविव (पिबतम्) (तिरोअह्न्यम्) तिरश्च तदहश्च तिरोहस्तस्मिन् भवम् (धत्तम्) (रत्नानि) रमणीयानि सुवर्णादीनि यानानि वा (दाशुषे) विद्यादिदानकर्त्रे विदुषे ॥१॥
तत्राऽश्विभ्यां किं साधनीयमित्युपदिश्यते।
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)येथे राजा व प्रजा यांच्या धर्माचे वर्णन असल्यामुळे या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणावी. ॥